(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.164. अध्यायः 164
Mahabharata - Vana Parva - Chapter Topics
धौम्येन युधिष्ठिरंप्रति मेरुमन्दववर्णनपूर्वकं चन्द्रसूर्यादिगतिप्रकारनिरूपणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-164-0x(2304)(22284)
ततः सूर्योदये धौम्यः पाञ्चालीसहितांस्च तान्।
आर्ष्टिणेन सहितः पाण्डवानभ्यवर्तत ॥ 3-164-1(22285)
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह।
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ॥ 3-164-2(22286)
`आर्ष्टिषेणं परिष्वज्य पुत्रवद्भरतर्षभ'।
धर्मराजं स्पृशन्पाणौ पाणिना स महातपाः।
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ॥ 3-164-3(22287)
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति।
शैलराजो महाराज मन्दरोऽभिविराजयन्।
इन्द्रवैश्रवणोपेतां दिशं पाण्डव रक्षति ॥ 3-164-4(22288)
पर्वतैश्च वनान्तैश्च काननैश्चैव शोभितम्।
एतमाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च।
ऋषयः सर्वधर्मज्ञाः सर्वे तात मनीषिणः ॥ 3-164-5(22289)
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः।
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ॥ 3-164-6(22290)
यमस्तु राजा धर्मज्ञः सर्वप्राणभृतां प्रभुः।
प्रेतसत्वगतीमेतां दक्षिणामाश्रितो दिशम् ॥ 3-164-7(22291)
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम्।
प्रेतराजस्य भवनमृद्ध्या परमया युतम् ॥ 3-164-8(22292)
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति।
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ॥ 3-164-9(22293)
एवं पर्वतराजानं समुद्रं च महोदधिम्।
अवसन्वरुणो राजा भूतानि परिरक्षति ॥ 3-164-10(22294)
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान्।
महामेरुर्महाभाग शिवो ब्रह्मविदांगतिः ॥ 3-164-11(22295)
यस्मिन्ब्रह्मसदश्चैव भूतात्मा चावतिष्ठते।
प्रजापतिः सृजन्सर्वं यत्किंचिज्जङ्गमागमम् ॥ 3-164-12(22296)
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान्।
तेषामपि महामेरुः शिवं स्थानमनामयम् ॥ 3-164-13(22297)
अत्रैव प्रतितिष्ठन्ति पुनरेषोदयन्ति च।
सप्त देवर्षयस्तात वसिष्ठप्रमुखास्तदा ॥ 3-164-14(22298)
देशं विरजसं पश्य मेरोः शिखरमुत्तमम्।
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ॥ 3-164-15(22299)
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम्।
अनादिनिधनं देवं प्रभुं नारायणं परम् ॥ 3-164-16(22300)
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते।
देवाश्च यत्नात्पश्यन्ति सर्वतेजोमयं शुभम् ॥ 3-164-17(22301)
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः।
स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ॥ 3-164-18(22302)
प्राच्यां नारायणस्थानं मेरावतिविराजते ॥ 3-164-19(22303)
यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः।
भासयन्सर्वभूतानि सुश्रियाऽभिविराजते ॥ 3-164-20(22304)
नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः।
प्राप्नुवन्ति गतिं ह्येतां यतीनां भावितात्मनाम् ॥ 3-164-21(22305)
न तं ज्योतींपि सर्वाणि प्राप्य भासन्ति पाण्डव।
स्वयंप्रभुरचिन्त्यात्मा तत्र ह्यतिविराजते ॥ 3-164-22(22306)
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्।
परेण तपसा युक्ता भाविताः कर्मभिः शुभैः।
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः ॥ 3-164-23(22307)
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत।
स्वयंभुवं महात्मानं देवदेवं सनातनम् ॥ 3-164-24(22308)
स्थानमेतन्महाभाव ध्रुवमक्षयमव्ययम्।
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ॥ 3-164-25(22309)
[एनं त्वहरहर्मेरुं सूर्याचन्द्रमसौ ध्रुवम्।
प्रदक्षिणमुपावृत्यकुरुतः कुरुनन्दन ॥ 3-164-26(22310)
ज्योतींषि चाप्यशेषेण सर्वाण्यनघ सर्वतः।
परियान्ति महाराज गिरिराजं प्रदक्षिणम् ॥] 3-164-27(22311)
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि।
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ॥ 3-164-28(22312)
अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः।
उदीचीं भजते काष्ठां बहुधा पर्वसन्धिषु ॥ 3-164-29(22313)
सुमेरुमनुवृत्तः स पुनर्गच्छति पाण्डव।
प्राङ्युखः सविता देवः सर्वभूतहिते रतः ॥ 3-164-30(22314)
स सम्यग्विभजन्कालान्बहुधा पर्वसन्धिषु।
तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ॥ 3-164-31(22315)
एवमेतं त्वतिक्रम्य महामेरुमतन्द्रितः।
सोमश्च विभजन्कालं बहुधा पर्वसन्धिषु।
भासयन्सर्वभूतानि पुनर्गच्छति सागरम् ॥ 3-164-32(22316)
तथा तमिस्रहा देवो मयूखैर्भासयञ्जगत्।
मार्गमेतमसंबाधमादित्यः परिवर्तते ॥ 3-164-33(22317)
सिसृक्षुः शिशिराण्येव दक्षिणां भजते दिशम्।
ततः सर्वाणि भूतानि कालं शिशिरमृच्छति ॥ 3-164-34(22318)
स्थावराणां च भूतानां जङ्गमानां च तेजसा।
तेजांसि समुपादत्ते निवृत्तः स विभावसुः ॥ 3-164-35(22319)
ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान्।
प्राणिभिः सततं स्वप्नोह्यभीक्ष्णं च निपेव्यते ॥ 3-164-36(22320)
एवमेतमनिर्देश्यं मार्गमावृत्य भानुमान्।
पुनः सृजति वर्षाणि भगवान्भासयन्प्रजाः ॥ 3-164-37(22321)
वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान्।
वर्धयनसुमहातेजाः पुनः प्रतिनिवर्तते ॥ 3-164-38(22322)
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः।
प्रकर्षन्सर्वभूतानि सविता परिवर्तते ॥ 3-164-39(22323)
संतता गतिरेतस्य नैष तिष्ठति पाण्डव।
आदायैव तु भूतानां तेजो विसृजते पुनः ॥ 3-164-40(22324)
विभजन्सर्वभूतानामायुः कर्म च भारत।
अहोरात्रं कलाः काष्ठाः सृजत्येष सदा विभुः ॥ 3-164-41(22325)

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-164-4 इन्द्रवैश्रवणांवेतां दिशं पाण्डव रक्षतः इति झ. पाठः ॥ 3-164-7 प्रेतसत्वगतीं मृतानां प्राणिनां गम्याम् ॥ 3-164-7 संयमनं नामतः ॥ 3-164-10 आवसन्नधितिष्ठन् ॥ 3-164-12 भूतात्मा सर्वे षां भूतानामात्मा। संपूर्णब्रह्माण्डपिण्डभिमानित्वात् ॥ 3-164-17 ब्रह्मणः चतुर्मुखस्य ॥ 3-164-25 प्रणम नमस्कुरु ॥ 3-164-26 उपावृत्य अप्रदक्षिणं गत्वैव। भचक्रवेगात् कुलालचक्रे प्रतीपं क्रमन्ती पिपीलिकेव प्रदक्षिणं कुरुत इत्यर्थः ॥ 3-164-32 पुनर्गच्छति मन्दरमिति झ. पाठः ॥ 3-164-34 शिशिराणि शीतानि ॥ 3-164-35 तेजांसि समुपादत्ते ग्रीष्मे ॥ 3-164-37 अनिर्देश्यं मार्गं अन्तरिक्षम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.