|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.164. अध्यायः 164
Mahabharata - Vana Parva - Chapter Topics
धौम्येन युधिष्ठिरंप्रति मेरुमन्दववर्णनपूर्वकं चन्द्रसूर्यादिगतिप्रकारनिरूपणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-164-0x(2304)(22284)
ततः सूर्योदये धौम्यः पाञ्चालीसहितांस्च तान्।
आर्ष्टिणेन सहितः पाण्डवानभ्यवर्तत ॥ 3-164-1(22285)
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह।
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ॥ 3-164-2(22286)
`आर्ष्टिषेणं परिष्वज्य पुत्रवद्भरतर्षभ'।
धर्मराजं स्पृशन्पाणौ पाणिना स महातपाः।
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ॥ 3-164-3(22287)
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति।
शैलराजो महाराज मन्दरोऽभिविराजयन्।
इन्द्रवैश्रवणोपेतां दिशं पाण्डव रक्षति ॥ 3-164-4(22288)
पर्वतैश्च वनान्तैश्च काननैश्चैव शोभितम्।
एतमाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च।
ऋषयः सर्वधर्मज्ञाः सर्वे तात मनीषिणः ॥ 3-164-5(22289)
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः।
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ॥ 3-164-6(22290)
यमस्तु राजा धर्मज्ञः सर्वप्राणभृतां प्रभुः।
प्रेतसत्वगतीमेतां दक्षिणामाश्रितो दिशम् ॥ 3-164-7(22291)
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम्।
प्रेतराजस्य भवनमृद्ध्या परमया युतम् ॥ 3-164-8(22292)
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति।
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ॥ 3-164-9(22293)
एवं पर्वतराजानं समुद्रं च महोदधिम्।
अवसन्वरुणो राजा भूतानि परिरक्षति ॥ 3-164-10(22294)
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान्।
महामेरुर्महाभाग शिवो ब्रह्मविदांगतिः ॥ 3-164-11(22295)
यस्मिन्ब्रह्मसदश्चैव भूतात्मा चावतिष्ठते।
प्रजापतिः सृजन्सर्वं यत्किंचिज्जङ्गमागमम् ॥ 3-164-12(22296)
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान्।
तेषामपि महामेरुः शिवं स्थानमनामयम् ॥ 3-164-13(22297)
अत्रैव प्रतितिष्ठन्ति पुनरेषोदयन्ति च।
सप्त देवर्षयस्तात वसिष्ठप्रमुखास्तदा ॥ 3-164-14(22298)
देशं विरजसं पश्य मेरोः शिखरमुत्तमम्।
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ॥ 3-164-15(22299)
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम्।
अनादिनिधनं देवं प्रभुं नारायणं परम् ॥ 3-164-16(22300)
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते।
देवाश्च यत्नात्पश्यन्ति सर्वतेजोमयं शुभम् ॥ 3-164-17(22301)
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः।
स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ॥ 3-164-18(22302)
प्राच्यां नारायणस्थानं मेरावतिविराजते ॥ 3-164-19(22303)
यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः।
भासयन्सर्वभूतानि सुश्रियाऽभिविराजते ॥ 3-164-20(22304)
नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः।
प्राप्नुवन्ति गतिं ह्येतां यतीनां भावितात्मनाम् ॥ 3-164-21(22305)
न तं ज्योतींपि सर्वाणि प्राप्य भासन्ति पाण्डव।
स्वयंप्रभुरचिन्त्यात्मा तत्र ह्यतिविराजते ॥ 3-164-22(22306)
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्।
परेण तपसा युक्ता भाविताः कर्मभिः शुभैः।
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः ॥ 3-164-23(22307)
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत।
स्वयंभुवं महात्मानं देवदेवं सनातनम् ॥ 3-164-24(22308)
स्थानमेतन्महाभाव ध्रुवमक्षयमव्ययम्।
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ॥ 3-164-25(22309)
[एनं त्वहरहर्मेरुं सूर्याचन्द्रमसौ ध्रुवम्।
प्रदक्षिणमुपावृत्यकुरुतः कुरुनन्दन ॥ 3-164-26(22310)
ज्योतींषि चाप्यशेषेण सर्वाण्यनघ सर्वतः।
परियान्ति महाराज गिरिराजं प्रदक्षिणम् ॥] 3-164-27(22311)
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि।
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ॥ 3-164-28(22312)
अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः।
उदीचीं भजते काष्ठां बहुधा पर्वसन्धिषु ॥ 3-164-29(22313)
सुमेरुमनुवृत्तः स पुनर्गच्छति पाण्डव।
प्राङ्युखः सविता देवः सर्वभूतहिते रतः ॥ 3-164-30(22314)
स सम्यग्विभजन्कालान्बहुधा पर्वसन्धिषु।
तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ॥ 3-164-31(22315)
एवमेतं त्वतिक्रम्य महामेरुमतन्द्रितः।
सोमश्च विभजन्कालं बहुधा पर्वसन्धिषु।
भासयन्सर्वभूतानि पुनर्गच्छति सागरम् ॥ 3-164-32(22316)
तथा तमिस्रहा देवो मयूखैर्भासयञ्जगत्।
मार्गमेतमसंबाधमादित्यः परिवर्तते ॥ 3-164-33(22317)
सिसृक्षुः शिशिराण्येव दक्षिणां भजते दिशम्।
ततः सर्वाणि भूतानि कालं शिशिरमृच्छति ॥ 3-164-34(22318)
स्थावराणां च भूतानां जङ्गमानां च तेजसा।
तेजांसि समुपादत्ते निवृत्तः स विभावसुः ॥ 3-164-35(22319)
ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान्।
प्राणिभिः सततं स्वप्नोह्यभीक्ष्णं च निपेव्यते ॥ 3-164-36(22320)
एवमेतमनिर्देश्यं मार्गमावृत्य भानुमान्।
पुनः सृजति वर्षाणि भगवान्भासयन्प्रजाः ॥ 3-164-37(22321)
वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान्।
वर्धयनसुमहातेजाः पुनः प्रतिनिवर्तते ॥ 3-164-38(22322)
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः।
प्रकर्षन्सर्वभूतानि सविता परिवर्तते ॥ 3-164-39(22323)
संतता गतिरेतस्य नैष तिष्ठति पाण्डव।
आदायैव तु भूतानां तेजो विसृजते पुनः ॥ 3-164-40(22324)
विभजन्सर्वभूतानामायुः कर्म च भारत।
अहोरात्रं कलाः काष्ठाः सृजत्येष सदा विभुः ॥ 3-164-41(22325)
इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-164-4 इन्द्रवैश्रवणांवेतां दिशं पाण्डव रक्षतः इति झ. पाठः ॥ 3-164-7 प्रेतसत्वगतीं मृतानां प्राणिनां गम्याम् ॥ 3-164-7 संयमनं नामतः ॥ 3-164-10 आवसन्नधितिष्ठन् ॥ 3-164-12 भूतात्मा सर्वे षां भूतानामात्मा। संपूर्णब्रह्माण्डपिण्डभिमानित्वात् ॥ 3-164-17 ब्रह्मणः चतुर्मुखस्य ॥ 3-164-25 प्रणम नमस्कुरु ॥ 3-164-26 उपावृत्य अप्रदक्षिणं गत्वैव। भचक्रवेगात् कुलालचक्रे प्रतीपं क्रमन्ती पिपीलिकेव प्रदक्षिणं कुरुत इत्यर्थः ॥ 3-164-32 पुनर्गच्छति मन्दरमिति झ. पाठः ॥ 3-164-34 शिशिराणि शीतानि ॥ 3-164-35 तेजांसि समुपादत्ते ग्रीष्मे ॥ 3-164-37 अनिर्देश्यं मार्गं अन्तरिक्षम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|